This page has been fully proofread once and needs a second look.

बालबोधिनीसहितः ।
 
द्धबुद्धमुक्त
 
सत्यस्वभावपरमानन्दानन्ताद्वयं व्र
ब्रह्मास्मि' इत्यखण्डाकाराकारिता चित्तवृत्ति-
रुदेति । सा तु चित्प्रतिविबिम्बसहिता सती प्र
त्यगभिन्नं परं ब्रह्म विषयीकृत्य तद्गताज्ञानमेव
बाधते । तदा पटकारणतन्तुदाहे पटदाहवद -
खिलकारणेऽज्ञाने बाधिते सति तत्कार्यस्या-
खिलस्य बाधितत्वात्तदन्तर्भूताखण्डाकारा-
कारिता चित्तवृत्तिरपि बाधिता भवति । तत्र
प्रतिविबिम्बितं चैतन्यमपि यथा दीपप्रभादि-
,
 

 
[commentary]
 
न्तशब्देन व्यापकत्वमुच्यते । अखण्डाकाराकारितेति,
अखण्डाकारगोचरेत्यर्थः + उदेति, सा एतद्वाक्यस्य शक्योऽर्थ
इति शेष: । वृत्ते:षः । वृत्तेः प्रयोजनमाह -- सा त्विति । अज्ञानमे-
वेत्यत्र एवकारेण चैतन्यस्फोरकत्वं वृत्तेर्व्यावर्त्यते । नन्वज्ञान-
निवर्तकवृत्तिनिवृत्त्यर्थं वृत्त्यन्तरमपेक्षणीयं न वा । आद्ये,

अनवस्था । अन्त्ये, तन्निवर्तकाभावेन तस्याः सत्त्वात्तयैव
सद्वितीयत्वम्, तत्राह -- तदेति । अज्ञाननिवर्तिका वृत्तिः
स्वस्या अपि बाधिका कतकरजोन्यायेनेति भावः । वृत्त्या
अज्ञानमात्रं निवर्त्यते, न चैतन्यं स्फोर्यत इत्युक्तम् ॥