This page has been fully proofread once and needs a second look.

९२
 
वेदान्तसार:
 
तस्माद्यथा 'सोऽयं देवदत्तः' इति वाक्यं
तदर्थो वा तत्कालैतत्कालविशिष्टदेवदत्तलक्ष-
णस्य वाक्यार्थस्यांशे विरोधाद्विरुद्धतत्कालैत-
त्कालविशिष्टांशं परित्यज्याविरुद्धं देवदत्तां-
शमात्रं लक्षयति, तथा 'तत्त्वमसि' इति
वाक्यं तदर्थो वा परोक्षत्वापरोक्षत्वादिवि-
शिष्टचैतन्यैकत्व लक्षणस्य वाक्यार्थस्यांशे वि
रोधाद्विरुद्ध परोक्षत्वापरोक्षत्वविशिष्टांशं परि-
त्यज्याविरुद्ध मखण्डचैतन्यमात्रं लक्षयतीति ॥
 

 
अथाधुना 'अहं ब्रह्मास्मि' इत्यनुभववा-
क्यार्थी
क्यार्थो वर्ण्यते । एवमाचार्येणाध्यारोपापवा-
दपुरःसरं तत्त्वंपदार्थोथौ शोधयित्वा वाक्येनाख-
ण्डार्थेऽवबोधिते, अधिकारिण:णः 'अहं नित्यशु-

 
[commentary]
 
अनुभववाक्येति । अनुभवस्य ब्रह्मतत्त्वसाक्षात्कारस्य
प्रतिपादकं यद्वाक्यं तस्येत्यर्थः । यद्यप्येतस्यापि वाक्यस्या-
खण्डार्थत्वेन तत्त्वमसिवाक्यान्न स्वतन्त्रोऽर्थोऽस्ति, तथापि
शक्त्या प्रतीयमानोऽर्थोऽत्र प्रतिपाद्यत इति ध्येयम् । अन-