This page has been fully proofread once and needs a second look.

बालबोधिनीसहितः ।
 
वाच्यम् । एकेन पदेन स्वार्थीथांशपदार्थान्तरो-
भयलक्षणाया असंभवात्पदान्तरेण तदर्थप्र
तीतौ लक्षणया पुनस्तत्प्रतीत्यपेक्षाभावाच्च ॥

 
[commentary]
 
रलक्षणैव किं न स्यादित्यर्थः । एकेनेति । यद्यपि 'शोणो
धावति' इत्यत्र यथा शोणपदं स्वार्थं पदार्थान्तरं च अश्वा-
दिलक्षणं लक्षणयोपस्थापयति, एवं तत्पदादेरपि स्वार्थीश-
थांशपदार्थान्तरोभयलश्क्षकत्वे न बाधकम्, तथाप्युभयलक्षणायां
गौरवाञ्च्चैतन्यलक्षणैव युक्तेति भावः । यत्तु भागलक्षणायां
गौरवादजहल्लक्षणैवास्त्विति शङ्कते -- न चेति । अजहल्लभ-
क्षणायां शक्यलक्ष्यसाधारण एको धर्मो वक्तव्यः, 'काकेभ्यो
दधि रक्ष्यताम्' इत्यत्र शक्याशक्यसाधारणद्ध्युपधातुक-
त्वरूपधर्मदर्शनात् । न च प्रकृते स्वार्थीथांशपदार्थान्तरसाधा-
रण एको धर्मोऽस्ति । ततो नाजहल्लक्षणेत्यभिप्रायेणैकेनेत्यु-
क्तमिति । तन्न, भागलक्षणाक्षेपे प्रकारान्तरेणेत्येतद्व्यर्थम् ।
अतः कथंत्वसिद्ध्यर्थं शक्तिजन्योपस्थितिं त्यक्त्वा शुद्ध-
चैतन्योपस्थित्यर्थं लक्षणावश्यमङ्गीकर्तव्येति । सा चेयं
लक्षणा पदद्वयेऽपि । न च एकेनैव पदेन लक्षणया चैतन्यो-
पस्थितौ पदान्तरवैयर्थ्यम् । पदस्याप्रमाणत्वेन वाक्यत्वसि-
द्धयर्थध्यर्थं पदान्तरस्याप्यावश्यिकत्वादिति ॥