This page has been fully proofread twice.

अत्र 'शोणो धावति' इति वाक्यवदजहल्लणापि न संभवति । तत्र शोणगुणगमनलक्षणस्य वाक्यार्थस्य विरुद्धत्वात्तदपरित्यागेन तदाश्रयाश्वादिलक्षणया तद्विरोधपरिहारसंभवादजहल्लक्षणा संभवति । अत्र तु परोक्षत्वापरोक्षत्वादिविशिष्टचैतन्यैकत्वस्य वाक्यार्थस्य विरुद्धत्वात्तदपरित्यागेन तत्संबन्धिनो यस्य कस्यचिदर्थस्य लक्षितत्वेऽपि तद्विरोधपरिहारासंभवादजहल्लक्षणा न संभवत्येव । न च तत्पदं त्वंपदं वा स्वार्थविरुद्वांशपरित्यागेनांशान्तरसहितं त्वंपदार्थं तत्पदार्थं वा लक्षयतु ; अतः कथं प्रकारान्तरेण भागलक्षणाङ्गीकरणमिति
 
[commentary]
 
तदाश्रयेति, शोणगुणाश्रयेत्यर्थः । विरुद्धत्वादिति । विशिष्टयोरभेदे विशेषणयोरप्यभेदः स्यात्, विशिष्टेऽन्वितस्य विशेषणेऽन्वयादित्यर्थ इत्याहुः । उक्तविस्मरणशीलः शङ्कते -- न चेति । शुद्धं चैतन्यमंशान्तरम् । प्रकारान्तरेणेति । पदद्वयेनापि शुद्धचैतन्यलक्षणैव कुतः, पदार्थान्त-