This page has been fully proofread once and needs a second look.

वेदान्तसारः
 
अत्र 'शोणो धावति' इति वाक्यवद्जहल्ल
णापि न संभवति । तत्र शोणगुणगमनलक्षण-
स्य वाक्यार्थस्य विरुद्धत्वात्तदपरित्यागेन तदा-
श्रयाश्वादिलक्षणया तद्विरोधपरिहारसंभवाद-
जहल्लक्षणा संभवति । अत्र तु परोक्षत्वापरो-
क्षत्वादिविशिष्टचैतन्यैकत्वस्य वाक्यार्थस्य वि
रुद्धत्वात्तदपरित्यागेन तत्संबन्धिनो यस्य क
स्यचिदर्थस्य लक्षितत्वेऽपि तद्विरोधपरिहारासं-
भवादजहल्लक्षणा न संभवत्येव । न च तत्पदं
त्वंपदं वा स्वार्थविरुद्वांशपरित्यागेनांशान्तर-
सहितं त्वंपदार्थं तत्पदार्थं वा लक्षयतु ; अतः
कथं प्रकारान्तरेण भागलक्षणाङ्गीकरणमिति
 
९०
 

 
[commentary]
 
तदाश्रयेति, शोणगुणाश्रयेत्यर्थः । विरुद्धत्वादिति ।
विशिष्टयोरभेदे विशेषणयोरप्यभेद:दः स्यात्, विशिष्टेऽन्वि-
तस्य विशेषणेऽन्वयादित्यर्थ इत्याहुः । उक्तविस्मरणशील:
लः शङ्कते -- न चेति । शुद्धं चैतन्यमंशान्तरम् । प्रकारान्त
रेणेति । पदद्वयेनापि शुद्धचैतन्यलक्षणैव कुतः, पदार्थान्त-