This page has not been fully proofread.

बालबोधिनीसहितः ।
 
८९
 
घोषयोराधाराधेयभावलक्षणस्य वाक्यार्थस्या-
शेषतो विरुद्धत्वाडाक्यार्थमशेषतः परित्यज्य
तत्संबन्धितीरलक्षणाया युक्तत्वाजहल्लक्षणा
संगच्छते । अत्र तु परोक्षापरोक्षचैतन्यैकत्व-
लक्षणस्य वाक्यार्थस्य भागमात्रे विरोधाद्भा
गान्तरमपि परित्यज्यान्यलक्षणाया अयुक्त-
त्वाजहल्लक्षणा न संगच्छते । न च गङ्गापदं
स्वार्थपरित्यागेन तीरपदार्थ यथा लक्षयति,
तथा तत्पदं त्वंपदं वा स्वार्थपरित्यागेन त्वंपदा-
र्थ तत्पदार्थ वा लक्षयतु; अतः कुतो जहल्ल
क्षणा न संगच्छत इति वाच्यम् । तत्र तीर-
पदाश्रवणेन तदर्थाप्रतीतौ लक्षणया तत्प्रती-
त्यपेक्षायामपि तत्त्वंपदयोः श्रयमाणत्वेन तद-
र्थप्रतीतौ लक्षणया पुनरन्यतरपदेनान्यतरपदा-
र्थप्रतीत्यपेक्षाभावात् ॥
 
भागान्तरमपीति, वैशिष्ट्यांश मित्यर्थः । अन्येति, ज
हदजहल्लक्षणयेत्यर्थः । तत्रैव स्वार्थागमनादिति भावः ॥