This page has not been fully proofread.

वेदान्तसार:
 
अत्र 'गङ्गयां घोषः प्रतिवसति' इति वा-
क्यवजहल्लक्षणापि न संगच्छते । तत्र गङ्गा-
८८
 
6
 
एवं च प्रकृते प्रमाणस्य विशेष्यत्वात्तत्तदेकदेशस्य च प्रत्य-
क्षस्य विशेषणत्वेन संबन्धात्तद्गुण एवायम्, न त्वतद्गुणः ।
न च यत्र विशेषणं क्रियान्वयि स तद्गुणः, यत्र च विशे-
षणं न तथा सोऽतद्गुण: ; एवं च अव विशेषणस्य प्रत्यक्षस्य
क्रियानन्वयादतद्गुणबहुव्रीहिरेवायमिति वाच्यम् । विशेषणस्य
क्रियान्वयित्वेन तद्गुणत्वे 'लम्बकर्णाय देहि' इत्यादौ कर्ण-
विशेषणस्य दानानन्वयेन तद्गुणबहुव्रीहित्वं न स्यात् ।
बहुधन आस्ते' इत्यादौ धनस्याप्यस्तिक्रियान्वयेन तद्गुणबहु-
व्रीहित्वमेव स्यात् न स्याच्चातद्गुणत्वमिति । न च इष्टापत्तिः,
तथा व्यवहाराभावात् । तस्माद्यत्र विशेष्यैकदेशो विशेषण-
त्वेन संबध्यते, म तद्गुणसंविज्ञान इत्येव लक्षणम् । अत एव
द्वितीयसूत्रे 'जन्म आदिर्यस्येति तद्गुणसंविज्ञानो बहुव्रीहिः
इति भाष्यटीकाव्याख्यानावसरे विवरणाचार्यै: 'विशेष्यैक-
देशमेव विशेषणं कृत्वा समासः' इत्युक्तम् । उक्तरीत्या प्रत्य-
क्षस्यापि विरोधक्रियान्वयेनातद्गुणबहुव्रीहित्वानुपपत्तेश्चेति
 
दिक् । तत्त्वमसिवाक्ये 'नीलमुत्पलम्' इत्यादिवाक्यवन्न
सामानाधिकरण्यं गुणगुणिभावाद्यसंभवाञ्चेत्यपि द्रष्टव्यम् ॥