This page has been fully proofread twice.

क्यार्थो न संगच्छते । तदुक्तम् -- 'संसर्गो वा विशिष्टो वा वाक्यार्थो नात्र संमतः । अखण्डैकरसत्वेन वाक्यार्थो विदुषां मतः' इति ॥
 
[commentary]
 
रस्तु यद्यपि न प्रत्यक्षः, तथापि 'तर्कितयत्सत्त्वं यदनुपलम्भविरोधि, तदभावः प्रत्यक्षः' इति न्यायेन वायौ रूपवदन्योन्याभाववद्घटे परमाण्वन्योन्याभाववद्वा जीवेश्वरभेदः प्रत्यक्ष एव । यद्यहमीश्वरः, तदा किंचिज्ज्ञत्वाद्युपलम्भो न स्यात्, न स्याच्च सर्वज्ञत्वाद्यनुपलम्भ इति प्रकृतेऽपि तर्कसंभवात् । तस्माद्भेदस्य प्रत्यक्षत्वाद्युक्तमुक्तं प्रत्यक्षादिप्रमाणविरोधादिति । प्रत्यक्षे च योग्यानुपलब्धिः परं द्रष्टव्या । यद्वा परोक्षत्वादिविशिष्टचैतन्यस्य जीवभेदे जीवस्य परोक्षत्वादि स्यात् । तथा च अपरोक्षत्वादिबोधकप्रत्यक्षादिप्रमाणविरोधः । अन्ये तु प्रत्यक्षमादिर्यस्येत्यतद्गुणबहुव्रीहिणानुमानादिकमेवोक्तमित्याहुः । तन्न ; अतद्गुणसंविज्ञानतस्तद्गुणसंविज्ञानस्य समीचीनत्वात् । किं च यत्र विशेष्यैकदेशो विशेषणत्वेन संबध्यते स तद्गुणसंविज्ञानः, यथा 'लम्बकर्णः' इत्यादौ । यत्र च न संबध्यते, किं त्वन्य एव विशेषणत्वेन संबध्येत सोऽतद्गुणसंविज्ञानः, यथा 'बहुधनः' इत्यादौ ।