2023-03-01 15:22:35 by ambuda-bot
This page has not been fully proofread.
बालबोधिनीसहितः ।
क्यार्थी न संगच्छते । तदुक्तम् – 'संसर्गो वा
विशिष्टो वा वाक्यार्थो नात्र संमतः । अख
ण्डैकरसत्वेन वाक्यार्थी विदुषां मतः' इति ॥
रस्तु यद्यपि न प्रत्यक्ष:, तथापि 'तर्कितयत्सत्त्वं यदनुप-
लम्भविरोधि, तदभाव: प्रत्यक्षः' इति न्यायेन वायौ रूप-
वदन्योन्याभाववद्धटे परमाण्वन्योन्याभाववद्वा जीवेश्वरभेदः
प्रत्यक्ष एव । यद्यमीश्वरः, तदा किंचिज्ज्ञत्वाद्युपलम्भो न
स्यात्, न स्याच्च सर्वज्ञत्वाद्यनुपलम्भ इति प्रकृतेऽपि तर्क-
संभवात् । तस्माद्भेदस्य प्रत्यक्षत्वा युक्तमुक्तं प्रत्यक्षादिप्रमाण-
विरोधादिति । प्रत्यक्षे च योग्यानुपलब्धिः परं द्रष्टव्या । यद्वा
परोक्षत्वादिविशिष्टचैतन्यस्य जीवभेदे जीवस्य परोक्षत्वादि
स्यात् । तथा च अपरोक्षत्वादिबोधकप्रत्यक्षादिप्रमाणविरोध: ।
अन्ये तु प्रत्यक्षमादिर्यस्येत्यतद्गुणबहुव्रीहिणानुमानादिकमेवो-
क्तमित्याहुः । तन्न ; अतद्गुणसंविज्ञानतस्तद्गुणसंविज्ञा-
नस्य समीचीनत्वात् । किं च यत्र विशेष्यैकदेशो विशेष-
णत्वेन संबध्यते स तद्गुणसंविज्ञान:, यथा 'लम्बकर्ण: '
इत्यादौ । यत्र च न संबध्यते, किं त्वन्य एव विशेषणत्वेन
संबध्येत सोऽतद्रुणसंविज्ञान:, यथा
बहुधनः' इत्यादौ ।
6