This page has been fully proofread twice.

अस्मिन्वाक्ये 'नीलमुत्पलम्' इति वाक्यवद्वाक्यार्थो न संगच्छते । तत्र नीलपदार्थनीलगुणस्य उत्पलपदार्थोत्पलद्रव्यस्य च शौक्ल्यपटादिभेदव्यावर्तकतया अन्योन्यविशेषणविशेष्यभावसंसर्गस्यान्यतरविशिष्टस्यान्यतरस्य तदैक्यस्य वा वाक्यार्थत्वाङ्गीकारे प्रमाणान्तरविरोधाभावात्तद्वाक्यार्थः संगच्छते । अत्र तु तदर्थपरोक्षत्वादिविशिष्टचैतन्यस्य त्वमर्थापरोक्षत्वादिविशिष्टचैतन्यस्य च अन्योन्यभेद-
व्यावर्तकतया विशेषणविशेष्यभावसंसर्गस्यान्यतरविशिष्टस्यान्यतरस्य तदैक्यस्य च वाक्यार्थत्वाङ्गीकारे प्रत्यक्षादिप्रमाणविरोधाद्वा-
 
[commentary]
 
भागलक्षणां समर्थयितुं प्रकारान्तरं व्युदस्यति -- अस्मिन्नित्यादिना । प्रत्यक्षादीति । ननु यदीश्वरः प्रत्यक्षः स्यात् तदा जीवेश्वरयोर्भेदः प्रत्यक्षसिद्ध इति तयोरभेदलक्षणो वाक्यार्थो न संगच्छेत -- प्रत्यक्षविरोधात् ; न चैतत्, ईश्वरस्याप्रत्यक्षत्वादिति चेत्, न । जीवस्तावत्प्रत्यक्ष एव । ईश्व-