This page has been fully proofread once and needs a second look.

वेदान्तसारः
 
अस्मिन्वाक्ये 'नीलमुत्पलम्' इति वाक्य-
वद्वाक्यार्थो न संगच्छते । तत्र नीलपदार्थ-
नीलगुणस्य उत्पलपदार्थोत्पलद्रव्यस्य च शौ-
क्ल्यपटादिभेदव्यावर्तकतया अन्योन्यविशेष-
णविशेष्यभावसंसर्गखास्यान्यतरविशिष्टखान्यत-
स्यान्यतरस्य तदैक्यस्य वा वाक्यार्थत्वाङ्गीकारे प्रमाणा-
न्तरविरोधाभावात्तद्वाक्यार्थः संगच्छते । अत्र
तु तदर्थपरोक्षत्वादिविशिष्टचैतन्यस्य त्वमर्था-
परोक्षत्वादिविशिष्टचैतन्यस्य च अन्योन्यभेद-

व्यावर्तकतया विशेषणविशेष्यभावसंसर्गस्या-
न्यतरविशिष्टस्यान्यतरस्य तदैक्यस्य च वा-
क्यार्थत्वाङ्गीकारे प्रत्यक्षादिप्रमाणविरोधाद्वा-

 
[commentary]
 
भागलक्षणां समर्थयितुं प्रकारान्तरं व्युदस्यति --
स्मिन्नित्यादिना । प्रत्यक्षादीति । ननु यदीश्वरः प्रत्यक्षः
स्यात् तदा जीवेश्वरयोर्भेदः प्रत्यक्षसिद्ध इति तयोरभेदलक्षणो
वाक्यार्थो न संगच्छेत -- प्रत्यक्षविरोधात् ; न चैतत्, ईश्वर-
स्याप्रत्यक्षत्वादिति चेत्, न । जीवस्तावत्प्रत्यक्ष एव । ईश्व-