This page has been fully proofread twice.

ऽपि परोक्षत्वादिविशिष्टचैतन्यवाचकतत्पदस्य, अपरोक्षत्वादिविशिष्टचैतन्यवाचकत्वंपदस्य चैकस्मिंश्चैतन्ये तात्पर्यसंबन्धः । विशेषणविशेष्यभावसंबन्धस्तु -- यथा तत्रैव वाक्ये सशब्दार्थतत्कालविशिष्टदेवदत्तस्य, अयंशब्दार्थैतत्कालविशिष्टदेवदत्तस्य चान्योन्यभेदव्यावर्तकतया विशेषणविशेष्यभावः, तथात्रापि वाक्ये तत्पदार्थपरोक्षत्वादिविशिष्टचैतन्यस्य, त्वंपदार्थापरोक्षत्वादिविशिष्टचैतन्यस्य चान्योन्यभेदव्यावर्तकतया विशेषणविशेष्यभावः । लक्ष्यलक्षणसंबन्धस्तु -- यथा तत्रैव सशब्दायंशब्दयोस्तदर्थयोर्वा विरुद्धतत्कालैतत्कालविशिष्टत्वपरित्यागेन अविरुद्धदेवदत्तेन सह लक्ष्यलक्षणभावः, तथात्रापि वाक्ये
तत्त्वंपदयोस्तदर्थयोर्वा विरुद्धपरोक्षत्वापरोक्षत्वादिविशिष्टत्वपरित्यागेनाविरुद्धचैतन्येन सह
लक्ष्यलक्षणभावः । इयमेव भागलक्षणेत्युच्यते ॥