This page has been fully proofread once and needs a second look.

बालबोधिनीसहितः ।
 
ऽपि
स्य,
 
परोक्षत्वादिविशिष्टचैतन्यवाचकतत्पद-
स्य, अपरोक्षत्वादिविशिष्टचैतन्यवाचकत्वंपद्-
स्य चैकस्मिंश्चैतन्ये तात्पर्यसंबन्धः । विशेष-
णविशेष्यभावसंबन्धस्तु -- यथा तत्रैव वाक्ये
सशब्दार्थतत्काल विशिष्टदेवदत्तस्य, अयंश-
ब्दार्थैतत्कालविशिष्टदेवदत्तस्य चान्योन्यभेद-
घ्
व्यावर्तकतया विशेषणविशेष्यभावः, तथा-
त्रापि वाक्ये तत्पदार्थपरोक्षत्वादिविशिष्टचै-
तन्यस्य, त्वंपदार्थापरोक्षत्वादिविशिष्टचैत-
न्यस्य चान्योन्यभेदव्यावर्तकतया विशेषण-
विशेष्यभावः । लक्ष्यलक्षणसंबन्धस्तु -- यथा
तत्रैव सशब्दायंशब्दयोस्तदर्थयोर्वा विरुद्धत-
त्कालैतत्काल विशिष्टत्वपरित्यागेन अविरुद्धदे-
वदत्तेन सह लक्ष्यलक्षणभावः, तथात्रापि वाक्ये

तत्त्वंपदयोस्तदर्थयोर्वा विरुद्धपरोक्षत्वापरोक्ष-
त्वादिविशिष्टत्वपरित्यागेनाविरुद्धचैतन्येन सह

लक्ष्यलक्षणभावः । इयमेव भागलक्षणेत्युच्यते ॥