This page has been fully proofread twice.

संबन्धत्रयं नाम पदयोः सामानाधिकरण्यं पदार्थयोर्विशेषणविशेष्यभावः प्रत्यगात्मलक्षणयोर्लक्ष्यलक्षणभावश्चेति । तदुक्तम् -- 'सामानाधिकरण्यं च विशेषणविशेष्यता । लक्ष्यलक्षणसंबन्धः पदार्थप्रत्यगात्मनाम्' इति । सामानाधिकरण्यसंबन्धस्तावत् -- यथा 'सोऽयं
देवदत्तः' इत्यस्मिन्वाक्ये तत्कालविशिष्टदेवदत्तवाचकसशब्दस्य एतत्कालविशिष्टदेवदत्तवाचकायंशब्दस्य चैकस्मिन्पिण्डे तात्पर्यसंबन्धः ; तथात्र 'तत्त्वमसि' इति वाक्ये-
 
[commentary]
 
र्थबोधकमिति, संसर्गागोचरप्रमितिविषयबोधकमित्यर्थः । प्रत्यगात्मलक्षणयोरिति । अत्र लक्षणपदेन लक्षकमुच्यते । पदार्थेति । पदार्थौ च प्रत्यगात्मा च तेषामित्यर्थः । यद्वा पदं च अर्थश्च प्रत्यगात्मा च तेषामित्यर्थः ।सामानाधिकरण्येति । समानविभक्त्यन्तयोः पदयोरेकस्मिन्नर्थे तात्पर्यं सामानाधिकरण्यमित्यर्थः । 'अभिधेयाविनाभूते प्रतीतिर्लक्षणोच्यते' 'शक्यसंबन्धो लक्षणा' इत्येतन्मतद्वयाभिप्रायेण तत्त्वंपदयोस्तदर्थयोर्वेत्युक्तमिति मन्तव्यम् ॥