2023-03-01 15:22:34 by ambuda-bot
This page has not been fully proofread.
वेदान्तसारः
संबन्धत्रयं नाम पदयोः सामानाधिकरण्यं प
दार्थयोर्विशेषणविशेष्यभावः प्रत्यगात्मलक्षण-
योर्लक्ष्यलक्षणभावश्चेति । तदुक्तम् – 'सामा-
नाधिकरण्यं च विशेषणविशेष्यता । लक्ष्यल-
क्षणसंबन्धः पदार्थप्रत्यगात्मनाम्' इति । सा-
मानाधिकरण्यसंबन्धस्तावत् - यथा 'सोऽयं
देवदत्तः' इत्यस्मिन्वाक्ये तत्कालविशिष्ट-
देवदत्तवाचकसशब्दस्य एतत्कालविशिष्टदेव-
दसवाचकायंशब्दस्य चैकस्मिन्पिण्डे तात्पर्य -
संबन्ध:; तथात्र 'तत्त्वमसि' इति वाक्ये-
र्थबोधकमिति, संसर्गागोचरप्रमितिविषयबोधकमित्यर्थः ।
प्रत्यगात्मलक्षणयोरिति । अत्र लक्षणपदेन लक्षकमुच्यते ।
पदार्थोति । पदार्थों च प्रत्यगात्मा च तेषामित्यर्थः । यद्वा
पदं च अर्थश्च प्रत्यगात्मा च तेषामित्यर्थः ।सामानाधि-
करण्येति । समानविभक्त्यन्तयोः पदयोरेकस्मिन्नर्थे तात्पर्य
सामानाधिकरण्यमित्यर्थ: । 'अभिधेयाविनाभूते प्रतीतिर्लक्ष-
णोच्यते' 'शक्यसंबन्धो लक्षणा' इत्येतन्मत्तद्वयाभिप्रायेण
तत्त्वंपदयोस्तदर्थयोर्वेत्युक्तमिति मन्तव्यम् ॥
८४