This page has been fully proofread twice.

एतदुपहितमल्पज्ञत्वादिविशिष्टं चैतन्यम्, एतदनुपहितं चैतत्त्रयं तप्तायःपिण्डवदेकत्वेनावभासमानं त्वंपदवाच्यार्थो भवति । एतदुपाध्युपहिताधारभूतमनुपहितं प्रत्यगानन्दरूपं तुरीयं चैतन्यं त्वंपदलक्ष्यार्थो भवति ॥
 
अथ महावाक्यार्थो वर्ण्यते -- इदं तत्त्वमसिवाक्यं संबन्धत्रयेणाखण्डार्थबोधकं भवति ।
 
[commentary]
 
पदार्थनिरूपणानन्तरं वाक्यार्थं निरूपयति -- अथेति । अत्र वाक्यं द्विविधम् -- संसृष्टार्थमखण्डार्थं चेति । तत्र संसृष्टार्थं संसर्गगोचरप्रतीतिजनकम्, यथा 'गामानय' इत्यादि । अखण्डार्थं तु संसर्गागोचरप्रतीतिजनकम्, यथा 'प्रकृष्टप्रकाशश्चन्द्रः' इत्यादि । तथा हि -- 'अस्मिञ्ज्योतिर्मण्डले कतमश्चन्द्रः' इति चन्द्रस्वरूपमात्रविवक्षया प्रश्ने, कश्चिदाह 'यः प्रकृष्टप्रकाशः स चन्द्रः' इति । तथा
च चन्द्रवाक्यं चन्द्रस्वरूपमात्रं बोधयति ; न तु संसर्गम्, प्रश्नप्रतिवचनयोर्वैरूप्यापत्तेः । 'सोऽयं देवदत्तः' इत्यपि वाक्यमखण्डार्थम् । एवं तत्त्वमसिवाक्यमपि स्वरूपमात्रविवक्षया प्रयुक्तत्वादखण्डार्थमित्याह
-- इदमिति । अखण्डा-