This page has been fully proofread once and needs a second look.

बालबोधिनीसहितः ।
 
८३
 
एतदुपहितमल्पज्ञत्वादिविशिष्टं चैतन्यम्, ए-
तद्
तदनुपहितं चैतत्त्रयं तप्तायः पिण्डवदेकत्वेनाव-
भासमानं त्वंपदवाच्यार्थो भवति । एतदुपा-
ध्युपहिताधारभूतमनुपहितं प्रत्यगानन्दरूपं तु-
रीयं चैतन्यं त्वंपदलक्ष्यार्थीथो भवति ॥
 

 
अथ महावाक्यार्थीथो वर्ण्यते -- इदं तत्त्वम
सिवाक्यं संबन्धत्रयेणाखण्डार्थबोधकं भवति ।
 
9
 
गामानय
 

 
[commentary]
 
पदार्थनिरूपणानन्तरं वाक्यार्थीथं निरूपयति -- अथेति ।
अत्र वाक्यं द्विविधम् -- संसृष्टार्थमखण्डार्थं चेति । तत्र
संसृष्टार्थं संसर्गगोचरप्रतीतिजनकम्, यथा
'गामानय' इत्यादि । अखण्डार्थं तु संसर्गागोचरप्रतीतिजनकम्, यथा
'प्रकृष्टप्रकाशश्चन्द्रः' इत्यादि । तथा हि -- 'अस्मिञ्ज्यो-
तिर्मण्डले कतमश्चन्द्रः' इति चन्द्रस्वरूपमात्रविवक्षया प्रश्ने,
कश्चिदाह 'यः प्रकृष्टप्रकाशः स चन्द्रः' इति । तथा

च चन्द्रवाक्यं चन्द्रस्वरूपमात्रं बोधयति ; न तु संसर्गम्,
प्रश्नप्रतिवचनयोर्वैरूप्यापत्ते:तेः । 'सोऽयं देवदत्तः' इत्यपि
वाक्यमखण्डार्थम् । एवं तत्त्वमसिवाक्यमपि स्वरूपमात्र-
विवक्षया प्रयुक्तत्वादखण्डार्थमित्याह - - इदमिति । अखण्डा-
6
 
6