This page has been fully proofread twice.

आभ्यामध्यारोपापवादाभ्यां तत्त्वंपदार्थशोधनमपि सिद्धं भवति । तथा हि -- अज्ञानादिसमष्टिः, एतदुपहितं सर्वज्ञत्वादिविशिष्टं चैतन्यम्, एतदनुपहितं चैतत्त्रयं तप्तायःपिण्डवदेकत्वेनावभासमानं तत्पदवाच्यार्थो भवति । एतदुपाध्युपहिताधारभूतमनुपहितं चैतन्यं तत्पदलक्ष्यार्थो भवति । अज्ञानादिव्यष्टिः,
 
[commentary]
 
यतोपहितचैतन्यमात्रमित्यर्थः । एतदाधारभूतेति । एतदधिष्ठानभूतेत्यर्थः ॥
 
अध्यारोपापवादनिरूपणप्रयोजनमाह -- आभ्यामिति । अज्ञानादिसमष्टिरिति । अज्ञानमादिर्निरूपकं यस्याः सा समष्टिर्विषयतेत्यर्थः । यत्त्वादिशब्देन लिङ्गशरीरसमष्टिरुच्यत इति, तन्न । तदुपहितस्य हिरण्यगर्भस्य जीवत्वात्त्वंपदवाच्यत्वेन तत्पदवाच्यत्वाभावात् । सर्वज्ञत्वादीति । अत्र आदिशब्देन सर्वनियन्तृत्वाद्युच्यते । चैतन्यमिति, ईश्वरचैतन्यमित्यर्थः, तस्य तत्पदवाच्यत्वात् । अज्ञानादिव्यष्टिरिति । अत्र आदिशब्देन व्यावहारिकजीवोपाधिलिङ्गशरीरमुच्यते, तदुपहितस्यापि त्वंपदवाच्यत्वात् ॥