This page has not been fully proofread.

८२
 
वेदान्तसार:
 
-
 
आभ्यामध्यारोपापवादाभ्यां तत्त्वंपदार्थशो-
धनमपि सिद्धं भवति । तथा हि - अज्ञाना
दिसमष्टिः, एतदुपहितं सर्वज्ञत्वादिविशिष्टं
चैतन्यम्, एतदनुपहितं चैतत्रयं तप्तायः पिण्ड-
वदेकत्वेनावभासमानं तत्पदवाच्यार्थी भव-
ति । एतदुपाध्युपहिताधारभूतमनुपहितं चैत-
न्यं तत्पदलक्ष्यार्थी भवति । अज्ञानादिव्यष्टिः,
 
यतोपहितचैतन्यमात्रमित्यर्थः । एतदाधारभूतेति । एतद-
धिष्ठानभूतेत्यर्थः ॥
 
अध्यारोपापवादनिरूपणप्रयोजनमाह - आभ्यामिति ।
अज्ञानादिसमष्टिरिति । अज्ञानमादिर्निरूपकं यस्याः सा
समष्टिर्विषयतेत्यर्थः । यत्त्वादिशब्देन लिङ्गशरीर समष्टिरुच्यत
इति, तन्न । तदुपहितस्य हिरण्यगर्भस्य जीवत्वात्त्वंपदवा-
च्यत्वेन तत्पदवाच्यत्वाभावात् । सर्वज्ञत्वादीति । अत्र
आदिशब्देन सर्वनियन्तृत्वायुच्यते । चैतन्यमिति, ईश्वरचै-
तन्यमित्यर्थः, तस्य तत्पदवाच्यत्वात् । अज्ञानादिव्यष्टि-
रिति । अत्र आदिशब्देन व्यावहारिकजीवोपाधिलिङ्गशरी-
रमुच्यते, तदुपहितस्यापि त्वंपदवाच्यत्वात् ॥