This page has been fully proofread once and needs a second look.

बालबोधिनीसहितः ।
 
भूतभूरादिचतुर्दश भुवनानि, एतदायतनभूतं
ब्रह्माण्डं चैतत्सर्वमेतेषां कारणरूपपञ्चीकृतभू-
तमात्रं भवति । एतानि शब्दादिविषयसहि-
तानि पञ्चीकृतानि भूतानि, सूक्ष्मशरीरजातं
चैतत्सर्वमेतेषां कारणरूपापञ्चीकृतभूतमात्रं
भवति । एतानि सत्त्वादिगुणसहितान्यपञ्ची-
कृतानि उत्पत्तिव्युत्क्रमेणैतत्कारणभूताज्ञानो-
पहितचैतन्यमात्रं भवन्ति । एतद्ज्ञानमज्ञानो-
पहितं चैतन्यं चेश्वरादिकमेतदाधारभूतानुप-
हितचैतन्यरूपं तुरीयं ब्रह्ममात्रं भवति ॥
 
वायुमात्रम्,
 

 
[commentary]
 
त्मनोपदेशोऽपवाद इत्यर्थः । एतत्सर्वमिति । यथा घटो
मृत्स्वरूपस्तत्कार्यत्वात्, तथैतदित्यर्थः । व्युत्क्रमेणेति ।
पृथिवी जलमात्रम्, जलं तेजोमात्रम्, तेजो
वायुमात्रम्, वायुराकाशमात्रमित्यर्थः । तदुक्तम् -- 'विपर्ययेण तु क्रमो-
ऽत उपपद्यते च ' इति, 'जगत्प्रतिष्ठा देवर्षे पृथिव्यप्सु
प्रलीयते । ज्योतिष्याप:पः प्रलीयन्ते ज्योतिर्वायौ प्रलीयते ॥
वायुर्व्यायोम्नि....' इति च । अज्ञानोपहितेति । अज्ञानविष-
* V 6
 
*
 
८१
 
9