This page has been fully proofread twice.

। अतस्तत्तद्भासकं नित्यशुद्धबुद्धमुक्तसत्यस्वभावं प्रत्यक्चैतन्यमेवात्मवस्त्विति वेदान्तविद्वदनुभवः । एवमध्यारोपः ॥
 
अपवादो नाम रज्जुविवर्तस्य सर्पस्य रज्जुमात्रत्ववद्वस्तुविवर्तस्यावस्तुनोऽज्ञानादेः प्रपञ्चस्य वस्तुमात्रत्वम् । तदुक्तम् -- 'सतत्त्वतोऽन्यथाप्रथा विकार इत्युदीरितः । अतत्त्वतोऽन्यथाप्रथा विवर्त इत्युदीरितः' इति । तथा हि -- एतद्भोगायतनं चतुर्विधसकलस्थूलशरीरजातम्, भोग्यरूपान्नपानादिकम्, एतदायतन-
 
[commentary]
 
अत इति । तथा च तत्तद्वादिनां पुत्राद्यात्मत्वोक्तिरारोपमात्रमित्यर्थः । शुद्धपदेन संसारराहित्यमुच्यते । तच्च संसारराहित्यं न मुक्तिदशायामेव, किं तु सर्वदेत्याह -- मुक्तेति । 'विमुक्तश्च विमुच्यते' इति श्रुतेरित्यर्थः । बुद्धिपदेन स्वप्रकाशत्वमुच्यते । दीपसाधारण्यं निराकरोति -- चैतन्यमिति ॥
 
इदानीमपवादं निरूपयति -- अपवादो नामेति । संगतिश्च हेतुहेतुमद्भावलक्षणा बोध्या । अवस्तुभूतस्य वस्त्वा-