This page has not been fully proofread.

वेदान्तसारः
 
व । अतस्तत्तद्भासकं नित्यशुद्धबुद्धमुक्तसत्य-
भावं प्रत्यक्चैतन्यमेवात्मवस्त्विति वेदान्तवि
द्वदनुभवः । एवमध्यारोपः ॥
 
अपवादो नाम रज्जुविवर्तस्य सर्पल रज्जु-
मात्रत्ववद्वस्तुविवर्तस्रावस्तुनोऽज्ञानादेः प्रप-
ञ्चय वस्तुमात्रत्वम् । तदुक्तम् – 'सतत्त्वतो-
ऽन्यथाप्रथा विकार इत्युदीरितः । अतत्त्वतो-
ऽन्यथाप्रथा विवर्त इत्युदीरितः' इति । तथा
हि — एतद्भोगायतनं चतुर्विधसकलस्थूलशरीर -
जातम्, भोग्यरूपान्नपानादिकम्, एतदायतन-
अत इति । तथा च तत्तद्वादिनां पुत्राद्यात्मत्वोक्तिरारोपमात्र-
मित्यर्थः । शुद्धपदेन संसारराहित्यमुच्यते । तच्च संसारराहित्यं
न मुक्तिदशायामेव, किं तु सर्वदेत्याह — मुक्तेति । 'विमुक्तश्च
विमुच्यते' इति श्रुतेरित्यर्थः । बुद्धिपदेन स्वप्रकाशत्वमुच्यते ।
दीपसाधारण्यं निराकरोति -- चैतन्यमिति ॥
 
-
 
-
 
इदानीमपवादं निरूपयति – अपवादो नामेति । संग-
तिश्च हेतुहेतुमद्भावलक्षणा बोध्या । अवस्तुभूतस्य वस्त्वा-