This page has been fully proofread twice.

उत्तरोत्तरश्रुतियुक्त्यनुभवाभासैरात्मत्वबाधदर्शनात्पुत्रादीनामनात्मत्वं स्पष्टमेव । किं च 'प्रत्यक्' 'अस्थूलः' 'अचक्षुः' 'अप्राणः' 'अमनाः' 'अकर्ता' 'चैतन्यम्' 'चिन्मात्रम्' 'सत्' इत्यादिप्रबलश्रुतिविरोधात्, अस्य पुत्रादिशून्यपर्यन्तस्य जडस्य चैतन्यभास्यत्वेन घटादिवदनित्यत्वात्, 'अहं ब्रह्म' इति विद्वदनुभवप्राबल्याच्च तत्तच्छ्रुतियुक्त्यनुभवाभासानां बाधितत्वादपि पुत्रादिशून्यपर्यन्तमखिलमनात्मै-
 
[commentary]
 
भासानां बाधनात्पुत्रादीनामनात्मत्वमित्युक्त्वा प्रकारान्तरेण पुत्रादीनामनात्मत्वमाह -- किं चेति । प्रत्यक्पदेन पुत्रस्यानात्मत्वमुच्यते, तस्य पराक्त्वात् । अकर्तृपदेन च बुद्धेः, आत्मचैतन्यपदेन जडस्याज्ञानस्य । चिन्मात्रमिति द्रव्यबोधात्मकस्यानात्मत्वमुच्यते । प्रत्यगस्थूलाद्यात्मना ह्यात्मा श्रुत्योच्यते । पुत्रादीनामात्मत्वे तद्विरुद्धमित्यर्थः । प्रबलेति, उपक्रमोपसंहारादिना प्राबल्यनिश्चयादित्यर्थः । अस्येति । तथा च 'विमतं नात्मा चिद्भास्यत्वाद्घटवत्' इत्यनुमानमुक्तं भवति । पुत्रादीनामनात्मत्वे प्रत्यवायमप्याह -- अहमिति ॥