This page has been fully proofread once and needs a second look.

बालबोधिनीसहितः ।
 
(
 
उत्तरोत्तरश्रुतियुक्त्यनुभवाभा सैरात्मत्वबाधद्-
र्शनात्पुत्रादीनामनात्मत्वं स्पष्टमेव । किं च 'प्रत्य-
क्' 'अस्थूलः' 'अचक्षुः' 'अप्राणः' 'अमनाः '
' 'अकर्ता' 'चैतन्यम्' 'चिन्मात्रम्' 'सत्'
 
इत्यादिप्रबलश्रुतिविरोधात्, अस्य पुत्रादिशू-
न्यपर्यन्तस्य जडस्य चैतन्यभास्यत्वेन घटादि-
वदनित्यत्वात्, 'अहं ब्रह्म' इति विद्वदनुभव-
प्राबल्याच्च तत्तच्छ्रुतियुक्त्यनुभवाभासानां बा-
धितत्वादपि पुत्रादिशून्य पर्यन्तमखिलमनात्मै-
७९
 

 
[commentary]
 
भासानां बाधनात्पुत्रादीनामनात्मत्वमित्युक्त्वा प्रकारान्तरेण
पुत्रादीनामनात्मत्वमाह -- किं चेति । प्रत्यक्पदेन पुत्र-
स्यां
स्यानात्मत्वमुच्यते, तस्य पराक्त्वात् । अकर्तृपदेन च बुद्धेः,
आत्मचैतन्यपदेन जडस्याज्ञानस्य । चिन्मात्रमिति द्रव्यबो-
धात्मकस्यानात्मत्वमुच्यते । प्रत्यगस्थूलाद्या त्मना ह्यात्मा श्रु-
त्योच्यते । पुत्रादीनामात्मत्वे तद्विरुद्धमित्यर्थः ! प्रबलेति,
उपक्रमोपसंहारादिना प्राबल्यनिश्चयादित्यर्थः । अस्येति ।
 
11
 
तथा च ' विमतं नात्मा चिद्भास्यत्वाद्टवत"त्' इत्यनुमानमुक्तं
भवति । पुत्रादीनामनात्मत्वे प्रत्यवायमध्प्याह -- अहमिति ॥
 
Ĵ