This page has been fully proofread twice.

प्रकाशाप्रकाशसद्भावात्, 'मामहं न जानामि' इत्याद्यनुभवाच्चाज्ञानोपहितं चैतन्यमात्मेति वदति । अपरो बौद्धः -- 'असदेवेदमग्र आसीत्' इत्यादिश्रुतेः, सुषुप्तौ सर्वाभावात्, 'अहं सुषुप्तौ नासम्' इत्युत्थितस्य स्वाभावपरामर्शविषयानुभवाच्च शून्यमात्मेति वदति ॥
 
एतेषां पुत्रादीनामनात्मत्वमुच्यते -- एतैरतिप्राकृतादिवादिभिरुक्तेषु श्रुतियुक्त्यनुभवाभासेषु पूर्वपूर्वोक्तश्रुतियुक्त्यनुभवाभासानाम्
 
[commentary]
 
इत्यर्थः । भाट्टैर्ह्यात्मनो द्रव्यबोधात्मकत्वं स्वीक्रियते । अतस्तेषामज्ञानोपहिते चैतन्ये एव आत्मत्वभ्रम इति भावः । द्रव्यबोधात्मकत्वे युक्तिमाह -- सुषुप्तावित्यादिना । अपर इति, स्पष्टम् । श्रुतेश्च वस्तुतोऽनभिव्यक्तनामरूपात्मनावस्थाने तात्पर्यम्, 'सदेव सोम्येदमग्र आसीत्' इति श्रुतेः, असतः सज्जननायोगाच्चेति ध्येयम् ॥
 
विशेषाध्यारोपं प्रदर्श्य तस्यारोपत्वं दर्शयति -- एतेषामिति । उत्तरश्रुतियुक्त्यनुभवाभासैः पूर्वश्रुतियुक्त्यनुभवा-