This page has been fully proofread twice.

रतार्किकौ तु -- 'अन्योऽन्तर आत्मानन्दमयः' इत्यादिश्रुतेः, बुद्ध्यादीनामज्ञाने लयदर्शनात्, 'अहमज्ञः' 'अहमज्ञानी' इत्याद्यनुभवाच्चाज्ञानमात्मेति वदतः । भाट्टस्तु -- 'प्रज्ञानघन एवानन्दमयः' इत्यादिश्रुतेः, सुषुप्तौ
 
[commentary]
 
च बुद्धिरित्यर्थः । प्राभाकरेति । यद्यपि गुरुभिस्तार्किकैर्वा आत्मा नानन्दरूपत्वेन स्वीक्रियते, तस्य सुखाश्रयत्वेन स्वीकारात् ; नाप्यज्ञानरूपत्वेन स्वीक्रियते, ज्ञानाश्रयत्वेन स्वीकारात्, ज्ञानाश्रयस्य च अज्ञानत्वायोगात्, सिद्धान्ताभिमतस्य अज्ञानस्य तैरनङ्गीकाराच्च । तथापि तैर्न चिद्रूप आत्मा स्वीक्रियते ; किं तु ज्ञानाश्रयो जडः, तस्यानादित्वं च स्वीक्रियते । एवंभूतश्च वस्तुतो नात्मा, 'सत्यं ज्ञानम्' इत्यादिश्रुत्या तस्य चिद्रूपतया श्रवणात् । तस्मात्परस्यात्मत्वेनाभिमतो योऽनादिसिद्धो जडः पदार्थः, तद्वस्तुतोऽज्ञानमेव, तस्य जडत्वे सति अनादित्वात् । अतः परेषामज्ञान एव आत्मत्वभ्रम इति भावः । बुद्धेरात्मत्वं दूषयति -- बुद्ध्यादीनामिति । 'यदा वै पुरुषः स्वपिति' इत्यादिश्रुतिष्विति शेषः, अहमज्ञ इत्यन्वाचयोक्तेः । प्रज्ञानघन इति, ज्ञानस्वरूप