This page has been fully proofread once and needs a second look.

बालबोधिनीसहितः ।
 
रतार्किकोकौ तु -- 'अन्योऽन्तर आत्मानन्दम
यः' इत्यादिश्रुतेः, बुद्ध्यादीनामज्ञाने लयद-
र्शनात्, 'अहमज्ञः' 'अहमज्ञानी' इत्याद्यनु-
भवाच्चाज्ञानमात्मेति वदतः । भाट्टस्तु -- 'प्र
ज्ञानघन एवानन्दमयः' इत्यादिश्रुतेः, सुषुप्तौ
 

 
[commentary]
 
च बुद्धिरित्यर्थ:थः । प्राभाकरेति । यद्यपि गुरुभिस्तार्किकैर्वा
आत्मा नानन्दरूपत्वेन स्वीक्रियते, तस्य सुखाश्रयत्वेन स्वीका-
रात् ; नाप्यज्ञानरूपत्वेन स्वीक्रियते, ज्ञानाश्रयत्वेन स्वीका-
रात्, ज्ञानाश्रयस्य च अज्ञानत्वायोगात्, सिद्धान्ताभिमत-
स्य अज्ञानस्य तैरनङ्गीकाराञ्च्च । तथापि तैर्न चिद्रूप आत्मा
स्वीक्रियते ; किं तु ज्ञानाश्रयो जडः, तस्यानादित्वं च स्वी-
क्रियते । एवंभूतश्च वस्तुतो नात्मा, 'सत्यं ज्ञानम्' इत्यादि-
श्रुत्या तस्य चिद्रूपतया श्रवणात् । तस्मात्परस्यात्मत्वेनाभि-
मतो योऽनादिसिद्धो जडः पदार्थः, तद्वस्तुतोऽज्ञानमेव, तस्य
जडत्वे सति अनादित्वात् । अतः परेषामज्ञान एव आत्मत्व-
भ्रम इति भावः । बुद्धेरात्मत्वं दूषयति -- बुद्ध्यादीना-
मिति । 'यदा वै पुरुषः स्वपिति' इत्यादिश्रुतिष्विति शेष:,
षः, अहमज्ञ इत्यन्वाचयोक्तेः । प्रज्ञानघन इति, ज्ञानस्वरूप
 
,