वेदान्तसारो बालबोधिनीसहितः /192 Edit | History ← Previous ← | Next → → 2023-10-12 08:25:42 by Bharadwajraki This page has been fully proofread once and needs a second look. वेदान्तसार: प्राणादेरभावात्, 'अहं संकल्पवान्' 'अहं विकल्पवान्' इत्याद्यनुभवाच्च मन आत्मेति वदति । बौद्धस्तु –-- 'अन्योऽन्तर आत्मा वि ज्ञानमयः' इति श्रुतेः, कर्तुरभावे करणस्य शक्त्यभावात्, 'अहं कर्ता' 'अहं भोक्ता' इत्याद्यनुभवाच्च बुद्धिरात्मेति वदति । प्राभाक- [commentary] नतादर्शनात्प्राणप्रवृत्तेः' इति । अत उपजीव्यत्वान्मनस एव आत्मत्वम् ; न तु प्राणस्य, मनोधीनत्वानुपपत्तःतेः, चेतनस्य जडाधीनप्रवृत्त्यभावात् । किं च प्राणस्य आ. त्मत्वंत्मत्वे तत्समानयोगक्षेमत्वेन अपानादेरप्यात्मत्वप्रसङ्गः । तथा च अनेकात्माधिष्ठितशरीरस्य युगपद्विरुद्धप्रवृत्तिप्रसङ्गेनोन्म- थनं स्यात् । ततश्च प्राणस्य नात्मत्वम् । किं त्वेकस्य मनस एव । 'प्राणमय : यः' इति श्रुतिस्तु 'अन्नमयः' इति ववद्व्याख्येया । 'अहमशनायावान्' इति प्रत्ययस्तु 'बधिरो- ऽहम्' इति प्रत्ययवन्नेयः । अन्योऽन्तर आत्मा मनोमया- दित्यर्थः । करणस्येति । सुखादिज्ञानकरणत्वेन हि मनो- ऽनुमीयते । अतस्तत्करणम् । ततस्तदतिरिक्तः कर्ता वाच्यः, करणातिरिक्तस्य कर्तुर्दर्शनात् । यश्च कर्ता स आत्मा, सा