This page has not been fully proofread.

वेदान्तसार:
 
प्राणादेरभावात्, 'अहं संकल्पवान्' 'अहं
विकल्पवान्' इत्याद्यनुभवाच्च मन आत्मेति
वदति । बौद्धस्तु – 'अन्योऽन्तर आत्मा वि
ज्ञानमयः' इति श्रुतेः, कर्तुरभावे करणस्य
शक्त्यभावात्, 'अहं कर्ता' 'अहं भोक्ता'
इत्याद्यनुभवाच्च बुद्धिरात्मेति वदति । प्राभाक-
नतादर्शनात्प्राणप्रवृत्तेः' इति । अत उपजीव्यत्वान्मनस
एव आत्मत्वम् ; न तु प्राणस्य, मनोधीनत्वानुपपत्तः,
चेतनस्य जडाधीनप्रवृत्त्यभावात् । किं च प्राणस्य आ.
त्मत्वं तत्समानयोगक्षेमत्वेन अपानादेरप्यात्मत्वप्रसङ्गः । तथा
च अनेकात्माधिष्ठितशरीरस्य युगपद्विरुद्धप्रवृत्तिप्रसङ्गेनोन्म-
थनं स्यात् । ततश्च प्राणस्य नात्मत्वम् । किं त्वेकस्य
मनस एव । 'प्राणमय : ' इति श्रुतिस्तु 'अन्नमयः' इति
वव्याख्येया । 'अहमशनायावान्' इति प्रत्ययस्तु 'बधिरो-
ऽहम्' इति प्रत्ययवन्नेयः । अन्योऽन्तर आत्मा मनोमया-
दित्यर्थः । करणस्येति । सुखादिज्ञानकरणत्वेन हि मनो-
ऽनुमीयते । अतस्तत्करणम् । ततस्तदतिरिक्तः कर्ता वाच्यः,
करणातिरिक्तस्य कर्तुर्दर्शनात् । यश्च कर्ता स आत्मा, सा