This page has been fully proofread twice.

प्राणमयः' इत्यादिश्रुतेः, प्राणाभाव इन्द्रियादिचलनायोगात्, 'अहमशनायावान्' 'अहं पिपासावान्' इत्याद्यनुभवाच्च प्राण आत्मेति वदति । अन्यस्तु चार्वाकः -- 'अन्योऽन्तर आत्मा मनोमयः' इत्यादिश्रुतेः, मनसि सुप्ते
 
[commentary]
 
माणिकत्वेऽपि तादात्म्याभिनिविष्टमनुष्यत्वेनाध्यासात् । अन्योऽन्तर आत्मेति, अन्नमयादित्यर्थः । प्राणाभाव इति । मरणकाले इति शेषः । तथा च उपजीव्यत्वात्प्राणस्यैव आत्मत्वम् । 'ते ह प्राणाः' इति श्रुतिस्त्विन्द्रियाधिष्ठातृदेवताभिप्राया । इन्द्रियाणामेवात्मत्वे 'पुरुषं प्राप्यास्तं यन्ति' इत्यादिश्रुतिविरोधः, 'यश्चक्षुषा रूपमद्राक्षं स एवाहं त्वगिन्द्रियेण स्पर्शमनुभवामि' इत्याद्यनुभवविरोधश्च स्यात् । 'बधिरोऽहम्' इत्याद्यनुभवस्तु बधिरत्वादिधर्माध्यासादिति केचित् । अन्ये तु -- बधिरत्वादिनेन्द्रियाणां तादात्म्याध्यास इत्याहुः । अशनाया अशितुमिच्छा ; पातुमिच्छा पिपासा ; एते च प्राणधर्मौ । अन्योऽन्तर आत्मेति, प्राणमयादित्यर्थः । मनसीति । मूर्च्छादाविति शेषः । प्राणप्रवृत्तेर्मनोधीनत्वाच्च । तदुक्तं विवरणे -- 'मनोधी-