2023-03-01 15:22:32 by ambuda-bot
This page has not been fully proofread.
बालबोधिनीसर्हितः ।
1)
प्राणमय:' इत्यादिश्रुतेः, प्राणाभाव इन्द्रिया
दिचलनायोगात्, 'अहमशनायावान्' 'अहं
पिपासावान्' इत्याद्यनुभवाच्च प्राण आत्मेति
वदति । अन्यस्तु चार्वाक:- 'अन्योऽन्तर
आत्मा मनोमयः' इत्यादिश्रुतेः, मनास सुप्ते
माणिकत्वेऽपि तादात्म्याभिनिविष्टमनुष्यत्वेनाध्यासात् । अ-
न्योऽन्तर आत्मेति, अन्नमयादित्यर्थः । प्राणाभाव इति ।
मरणकाले इति शेषः । तथा च उपजीव्यत्वात्प्राणस्यैव आ-
त्मत्वम् । 'ते ह प्राणाः' इति श्रुतिस्त्विन्द्रियाधिष्ठातृदेवता-
भिप्राया । इन्द्रियाणामेवात्मत्वे 'पुरुषं प्राप्यास्तं यन्ति '
इत्यादिश्रुतिविरोधः, 'यश्चक्षुषा रूपमद्राक्षं स एवाहं
त्वगिन्द्रियेण स्पर्शमनुभवामि' इत्यायनुभवविरोधश्च स्यात् ।
'बधिरोऽहम्' इत्याद्यनुभवस्तु बधिरत्वादिधर्माध्यासादिति
केचित । अन्ये तु - बधिरत्वादिनेन्द्रियाणां तादात्म्या-
ध्यास इत्याहुः । अशनाया अशितुमिच्छा; पातुमिच्छा
पिपासा; एते च प्राणधर्मो । अन्योऽन्तर आत्मेति,
प्राणमयादित्यर्थः । मनसीति । मूर्च्छादाविति शेष: ।
प्राणप्रवृत्तेर्मनोधीनत्वाच्च । तदुक्तं विवरणे– 'मनोधी-
७५