This page has been fully proofread twice.

इत्यादिश्रुतेः, प्रदीप्तगृहात्स्वपुत्रं परित्यज्यापि स्वस्य निर्गमदर्शनात्, 'स्थूलोऽहम्' 'कृशोऽहम्' इत्याद्यनुभवाच्च स्थूलशरीरमात्मेति वदति । अपरश्चार्वाकः -- 'ते ह प्राणाः प्रजापतिं पितरमेत्योचुः' इत्यादिश्रुतेः, इन्द्रियाणामभावे शरीरचलनाभावात्, 'काणोऽहम्' 'बधिरोऽहम्' इत्याद्यनुभवाच्चेन्द्रियाण्यात्मेति वदति । अपरश्चार्वाकः -- 'अन्योऽन्तर आत्मा
 
[commentary]
 
द्रष्टव्यम् । अतिप्राकृताद्विशेषमाह -- प्रदीप्तेति । 'आत्मा वै पुत्र' इत्यादिश्रुतिस्तु पुत्रस्य प्रियत्वमाहेत्यर्थः । प्राणाः इन्द्रियाणि । ऊचुरिति । तथा च इन्द्रियाणां चेतनत्वमाश्रयणीयम् ; अन्यथा वचनासंभव इति भावः । शरीराद्विशेषमाह -- इन्द्रियाणामिति । उपजीव्यत्वादिन्द्रियाणामात्मत्वमिति भावः । 'स वा एषः' इत्यादिश्रुतिस्तु स्थूलदृष्ट्यभिप्राया ; अन्यथोत्तरश्रुतिविरोध इत्यर्थः । स्थूलस्यात्मत्वे
बाल्यचेष्टाः कौमारादौ न स्मरेदित्यादि द्रष्टव्यम् । 'स्थूलोऽहम्' इत्याद्यनुभवस्तु देहस्य तादात्म्याध्यासात् । न च प्रामाणिकस्य कथमध्यास इति वाच्यम् । शरीरत्वादिना प्रा-