This page has not been fully proofread.

वेदान्तसारः
 

 
इत्यादिश्रुतेः, प्रदीप्तगृहात्स्वपुत्रं परित्यज्यापि
स्वस्य निर्गमदर्शनात्, 'स्थूलोऽहम्' 'कृशो-
ऽहम्' इत्याद्यनुभवाच्च स्थूलशरीरमात्मेति व
दति । अपरश्चार्वाकः - 'ते ह प्राणाः प्रजाप-
तिं पितरमेत्योचुः' इत्यादिश्रुतेः, इन्द्रियाणाम-
भावे शरीरचलनाभावात्, 'काणोऽहम्' 'ब-
घिरोऽहम्' इत्याद्यनुभवाच्चेन्द्रियाण्यात्मेति व-
दति । अपरश्चार्वाकः - 'अन्योऽन्तर आत्मा
 
-
 
२७४
 
1
 
वै
 
षमाह-
द्रष्टव्यम् । अतिप्राकृताद्विशेषमाह - प्रदीप्तेति । 'आत्मा
पुत्र' इत्यादिश्रुतिस्तु पुत्रस्य प्रियत्वमाहेत्यर्थ: । प्राणा:
इन्द्रियाणि । ऊचुरिति । तथा च इन्द्रियाणां चेतनत्वमाश्र-
यणीयम्; अन्यथा वचनासंभव इति भावः । शरीराद्विशे-
इन्द्रियाणामिति । उपजी व्यत्वादिन्द्रियाणामा-
त्मत्वमिति भावः । 'स वा एषः' इत्यादिश्रुतिस्तु स्थूलंह-
ष्ट्रयभिप्राया; अन्यथोत्तरश्रुतिविरोध इत्यर्थः । स्थूलस्यात्मत्वे
बाल्यचेष्टा: कौमारादौ न स्मरेदित्यादि द्रष्टव्यम् । 'स्थू-
लोऽहम्' इत्याद्यनुभवस्तु देहस्य तादात्म्याध्यासात् । नं च
प्रामाणिकस्य कथमध्यास इति वाच्यम् । शरीरत्वादिना प्रा-
-