This page has been fully proofread twice.

ब्रह्म' इति वाक्यस्य वाच्यं भवति, विविक्तं सल्लक्ष्यमपि भवति । एवं वस्तुन्यवस्त्वारोपोऽध्यारोपः सामान्येन प्रदर्शितः ॥
 
इदानीं प्रत्यगात्मनीदमिदमयमयमारोपयतीति विशेषत उच्यते -- अतिप्राकृतस्तु -- 'आत्मा वै पुत्र' इत्यादिश्रुतेः स्वस्मिन्निव पुत्रेऽपि प्रेमदर्शनात्पुत्रे पुष्टे नष्टे चाहमेव पुष्टो नष्टश्चेत्याद्यनुभवाच्च पुत्र आत्मेति वदति । चार्वाकस्तु -- 'स वा एष पुरुषोऽन्नरसमयः'
 
[commentary]
 
गात् । जीवत्वं च 'भयात्' इत्यादिश्रवणादित्युक्तम् । वास्तवाभेदाभिप्रायं वा एतदिति संप्रदायः ॥
 
इदानीमिति, सामान्यतोऽध्यारोपनिरूपणानन्तरमित्यर्थः । इदमिदमिति, वक्ष्यमाणं पुत्रत्वादीत्यर्थः ।
अयमयमिति, स स वादीत्यर्थः । आत्मा वै पुत्रेति । यद्यपि प्राकृतानां श्रुत्युपन्यासो न युक्तस्तत्प्रामाण्यानङ्गीकारात्, तथापि सिद्धान्तिना तत्तत्प्रामाण्याङ्गीकारेण तं प्रति तदुपन्यासो युक्त इति भावः । एवमग्रेऽपि