This page has been fully proofread once and needs a second look.

बालबोधिनीसहितः ।
 
ब्रह्म' इति वाक्यस्य वाच्यं भवति, विवि-
क्तं सल्लक्ष्यमपि भवति । एवं वस्तुन्य
वस्त्वारोपोऽध्यारोपः सामान्येन प्रदर्शितः ॥
 
वस्त्वा-
७३
 

 
इदानीं प्रत्यगात्मनीदमिदमयमयमारोपय-
तीति विशेषत उच्यते -- अतिप्राकृतस्तु -
- 'आत्मा वै पुत्र' इत्यादिश्रुतेः स्वस्मिन्निव
पुत्रेऽपि प्रेमदर्शनात्पुत्रे पुष्टे नष्टे चाहमेव पुष्टो
नष्टश्चेत्याद्यनुभवाच्च पुत्र आत्मेति वदति ।
चार्वाकस्तु -- 'स वा एष पुरुषोऽन्नरसमयः'
 

 
[commentary]
 
गात् । जीवत्वं च ' भयात्' इत्यादिश्रवणादित्युक्तम् । वास्त-
वाभेदाभिप्रायं वा एतदिति संप्रदाय:यः
 

 
इदानीमिति, सामान्यतोऽध्यारोपनिरूपणानन्तरमि-
त्यर्थः । इदमिदमिति, वक्ष्यमाणं पुत्रत्वादीत्यर्थः ।

अयमयमिति, स स वादीत्यर्थः । आत्मा वै पुत्रेति ।
यद्यपि प्राकृतानां श्रुत्युपन्यासो न युक्तस्तत्प्रामाण्या-
नङ्गीकारात्, तथापि सिद्धान्तिना तत्तत्प्रामाण्याङ्गीकारेण
तं प्रति तदुपन्यासो युक्त इति भावः । एवमग्रेऽपि