This page has been fully proofread twice.

बिम्बाकाशवच्च पूर्ववद्भेदः । एवं पञ्चीकृतपञ्चभूतेभ्यः स्थूलप्रपञ्चोत्पत्तिः ॥
 
एतेषां स्थूलसूक्ष्मकारणप्रपञ्चानामपि समष्टिरेको महान्प्रपञ्चो भवति, यथावान्तरवनानां समष्टिरेकं महद्वनं भवति यथा वावान्तरजलाशयानां समष्टिरेको महाञ्जलाशयः । एतदुपहितं वैश्वानरादीश्वरपर्यन्तं चैतन्यमप्यवान्तरवनावच्छिन्नाकाशवदवान्तरजलाशयगतप्रतिबिम्बाकाशवच्चैकमेव । आभ्यां महाप्रपञ्चेतदुपहितचैतन्याभ्यां तप्तायःपिण्डवदविविक्तं सदनुपहितं चैतन्यम् 'सर्वं खल्विदं
 
[commentary]
 
पहितत्वाभावाच्चेति केचित् । अभेदशब्दो भेदयतीति व्युत्पत्त्या पूर्ववद्व्याख्येयः । समष्ट्युपहितत्वं तु स्थूलाभिमानित्वादिति वा अर्थः । स्थूलनिरूपणमुपसंहरति -- एवमिति ॥
 
स्थूलेति । यद्यपि न स्थूलसमष्टिः, तथापि स्थूलव्यष्टिरेव विराजः समष्टिरुक्तेति मन्तव्यम् । एकमेवेति । एतच्च उपासनार्थम्, विराड्ढिरण्यगर्भयोर्जीवत्वेनेश्वराभेदायो-