This page has been fully proofread once and needs a second look.

वेदान्तसारः
 
बिम्बाकाशवच्च पूर्ववद्भेदः । एवं पञ्चीकृतप-
ञ्चभूतेभ्यः स्थूलप्रपञ्चोत्पत्तिः ॥
 

 
एतेषां स्थूलसूक्ष्मकारणप्रपञ्चानामपि सम-
ष्टिरेको महान्प्रपञ्चो भवति, यथावान्तरव
नानां समष्टिरेकं महद्वनं भवति यथा वावा
न्तरजलाशयानां समष्टिरेको महाञ्जलाशयः ।
एतदुपहितं वैश्वानरादीश्वरपर्यन्तं चैतन्यमप्य-
वान्तरवनावच्छिन्नाकाशवद्वान्तरजलाशयग-
तप्रतिबिम्बाकाशवच्चैकमेव । आभ्यां महाप्रप-
ञ्चेतदुपहितचैतन्याभ्यां तप्तायः पिण्डवदवि-
विक्तं सदनुपहितं चैतन्यम् 'सर्वं खल्विदं
 
७२
 

 
[commentary]
 
पहितत्वाभावाच्चेति केचित् । अभेदशब्दो भेदयतीति व्यु-
त्पत्त्या पूर्ववद्वथाव्याख्येयः । समष्ट्युपहितत्वं तु स्थूलाभिमानि-
त्वादिति वा अर्थ:थः । स्थूलनिरूपणमुपसंहरति -- एवमिति ॥
 

 

 
स्थूलेति । यद्यपि न स्थूलसमष्टिः, तथापि स्थूलत्र्व्यष्टि-
रेव विराज: समष्ट्रिजः समष्टिरुक्तेति मन्तव्यम् । एकमेवेति । एतच्
उपासनार्थम्,
विर।राड्ढिरण्यगर्भयोर्जीवत्वेनेश्वराभेदायो-