This page has been fully proofread twice.

स्पर्शरूपरसगन्धानग्नीन्द्रोपेन्द्रयमप्रजापतिभिः क्रमान्नियन्त्रितेन वागादीन्द्रियपञ्चकेन क्रमाद्वचनादानगमनविसर्गानन्द्रांश्चन्द्रचतुर्मुखशंकराच्युतैः क्रमान्नियन्त्रितेन मनोबुद्ध्यहंकारचित्ताख्येनान्तरिन्द्रियचतुष्केण क्रमात्संकल्पनिश्चयाहंकार्यचैत्तांश्च सर्वानेतान्स्थूलविषयाननुभवतः, 'जागरितस्थानो बहिःप्रज्ञः' इत्यादिश्रुतेः । अत्राप्यनयोः स्थूलव्यष्टिसमष्ट्योस्तदुपहितविश्ववैश्वानरयोश्च वनवृक्षवत्तदवच्छिन्नाकाशवच्च जलाशयजलवत्तद्गतप्रति-
 
[commentary]
 
गादीन्द्रियपञ्चकेनेत्यस्याग्रे जनितानिति शेषः । वचनादीनानन्दान्तान्यथायथं ज्ञानेन्द्रियैः साक्षिणा वा अनुभवत इत्यर्थ इति द्रष्टव्यम्, कर्मेन्द्रियाणामनुभावकत्वाभावात् । चतुर्मुखो विराट् । मनोबुद्ध्यादीनामिन्द्रियत्वं संकल्पादिग्राहकत्वं च उपचारादुक्तम्, तेषां तैः सहाभेदात् । उपचारश्च
संकल्पादीनां स्वसाक्षिप्रत्यक्षे विषयत्वेन हेतुत्वात् । अत्रापीति । एतदेकदेशिमतम्, औपाधिकयोगाद्विराजः समष्ट्यु-