This page has been fully proofread once and needs a second look.

बालबोधिनीसहितः ।
 
७१
 
स्पर्शरूपरसगन्धानग्नीन्द्रोपेन्द्र यमप्रजापतिभिः
क्रमान्नियन्त्रितेन वागादीन्द्रियपञ्चकेन क्रमा-
द्वचनादानगमनविसर्गानन्द्रांश्चन्द्र चतुर्मुखशंक-
राच्युतैः क्रमांमान्नियन्त्रितेन मनोबुद्धथध्यहंका-
रचित्ताख्येनान्तरिन्द्रियचतुष्केण क्रमात्संक-
ल्पनिश्चयाहंकार्यचैत्तांश्च सर्वानेतान्स्थूलविष
याननुभवतः, 'जागरितस्थानीनो बहिःप्रज्ञः'
इत्यादिश्रुतेः । अत्राप्यनयोः स्थूलव्यष्टिसम-
ष्ट्योस्तदुपहितविश्ववैश्वानरयोश्च वनवृक्षवत्त-
दवच्छिन्नाकाशवच्च जलाशयजलवत्तद्गतप्रति-

 
[commentary]
 
गादीन्द्रियपञ्चकेनेत्यस्याग्रे जनितानिति शेषः । वचनादीना-
नन्दान्तान्यथायथं ज्ञानेन्द्रियैः साक्षिणा वा अनुभवत इत्यर्थ
इति द्रष्टव्यम्, कर्मेन्द्रियाणामनुभावकत्वाभावात् । चतुर्मु-
खो विराट् । मनोबुद्ध्यादीनामिन्द्रियत्वं संकल्पादिग्राहक-
त्वं च उपचारादुक्तम्, तेषां तै:तैः सहाभेदात् । उपचारश्च

संकल्पादीनां स्वसाक्षिप्रत्यलेक्षे विषयत्वेन हेतुत्वात् । अत्रा-
पीति । एतदेकदेशिंशिमतम्, औपाधिकयोगाद्विराज:जः समष्ट्यु-
"