This page has been fully proofread twice.

राभिमानित्वाद्विविधं राजमानत्वाच्च । अस्यैषा समष्टिः स्थूलशरीरम्, अन्नविकारत्वादन्नमयकोशः, स्थूलभोगायतनत्वाच्च स्थूलशरीरं जाग्रदिति च व्यपदिश्यते । एतद्व्यष्ट्युपहितं चैतन्यं विश्व इत्युच्यते, सूक्ष्मशरीराभिमानमपरित्यज्य स्थूलशरीरादिप्रविष्टत्वात् । अस्याप्येषा व्यष्टिः स्थूलशरीरम्, अन्नविकारत्वादेव हेतोरन्नमयकोशो जाग्रदिति चोच्यते । तदानीमेतौ विश्ववैश्वानरौ दिग्वातार्कवरुणाश्विभिः क्रमान्नियन्त्रितेन श्रोत्रादीन्द्रियपञ्चकेन क्रमाच्छन्द-
 
[commentary]
 
भ्यो भिन्नः । अन्यथा सर्वज्ञत्वादिधर्मसांकर्यं स्यादिति । अन्नं पृथिवी । अज्ञानोपहित आनन्दमयः, बुद्ध्युपहितो विज्ञानमयः, मनउपहितो मनोमयः, प्राणोपहितः प्राणमयः, स्थूलशरीरोपहितश्चान्नमय इत्याखण्डलार्थः । विश्व इति । अज्ञानोपहितः प्राज्ञः, लिङ्गशरीरोपहितस्तैजसः, स्थूलशरीरोपहितश्च
विश्व इत्याखण्डलार्थः । जाग्रदिति, जाग्रद्दशायां विद्यमानत्वादित्यर्थः । तदानीमिति, जाग्रद्दशायामित्यर्थः । द्वितीयान्तानां गन्धानित्यादीनामनुभवत इत्यनेन संबन्धः । वा-