This page has been fully proofread once and needs a second look.

वेदान्तसारः
 
राभिमानित्वाद्विविधं राजमानत्वाच्च । अस्यैषा
समष्टिः स्थूलशरीरम्, अन्नविकारत्वादन्नमय-
कोशः, स्थूलभोगायतनत्वाच्च स्थूलशरीरं जाग्र-
दिति च व्यपदिश्यते । एतद्व्यष्ट्युपहितं चैतन्यं
विश्व इत्युच्यते, सूक्ष्मशरीराभिमानमपरित्यज्य
स्थूलशरीरादिप्रविष्टत्वात् । अस्याप्येषा व्यष्टिः
स्थूलशरीरम्, अन्नविकारत्वादेव हेतोरन्नमय-
कोशो जाग्रदिति चोच्यते । तदानीमेतौ
विश्ववैश्वानरौ दिग्वातार्कवरुणाश्विभिः क्रमा-
न्नियन्त्रितेन श्रोत्रादीन्द्रियपञ्चकेन क्रमाच्छन्द-

 
[commentary]
 
भ्यो भिन्नः । अन्यथा सर्वज्ञत्वादिधर्मसांकर्यं स्यादिति । अन्नं
पृथिवी ! अज्ञानोपहित आनन्दमयः, बुद्ध्युपहितो विज्ञानमयः,
मनउपहितो मनोमयः, प्राणोपहितः प्राणमय:यः, स्थूलशरीरो-
पहितश्चान्नमय इत्याखण्डलार्थः । विश्व इति । अज्ञानोप-
हितः प्राज्ञः, लिङ्गशरीरोपहितस्तैजस:सः, स्थूलशरीरोपहितश्च

विश्व इत्याखण्डलार्थ:थः । जाग्रदिति, जाग्रद्दशायां विद्यमा-
नत्वादित्यर्थः । तदानीमिति, जाग्रद्दशायामित्यर्थ:थः । द्विती-
यान्तानां गन्धानित्यादीनामनुभवत इत्यनेन संबन्ध:धः । वा-