This page has been fully proofread twice.

न्यण्डेभ्यो जातानि पक्षिपन्नगादीनि । उद्भिज्जानि भूमिमुद्भिद्य जातानि कक्षवृक्षादीनि ।
स्वेदजानि स्वेदेभ्यो जातानि यूकामशकादीनि ॥
 
अत्रापि चतुर्विधसकलस्थूलशरीरमेकानेकबुद्धिविषयतया वनवज्जलाशयवद्वा समष्टिर्वृक्षवज्जलवद्वा व्यष्टिरपि भवति । एतत्समष्ट्युपहितं चैतन्यं वैश्वानरो विराडित्युच्यते, सर्वन-
 
[commentary]
 
एतत्समष्टीति । अत्राहुः -- न स्थूलशरीरसमुदायः समष्टिः । तथा सति स्थूलशरीरोपहितास्मदादिजीवसमुदाय एव विराट् स्यात् । न चैतद्युक्तम्, विराजो भिन्नतया श्रवणात् । नापि व्यापकं स्थूलशरीरं समष्टिस्तदुपहितश्च विराडिति युक्तम्, अस्मदादिवद्विराजः प्रत्यक्षत्वप्रसङ्गात् । तस्मान्न समष्ट्युपहितो विराट् । किं तु परिच्छिन्नचतुर्मुखस्थूलशरीरोपहितः सत्यलोकाधिपतिः सर्वज्ञो हिरण्यगर्भाच्छतगुणापकृष्टानन्दभुग्जीवविशेष एव विराट् । तस्य च समष्ट्युपहितत्वमस्मदादिसकलस्थूलशरीराभिमानात्क्वचिद्व्यपदिश्यते । न तु वस्तुतः समष्ट्युपहितत्वम्, उक्तहेतोः । स च अस्मदादि-