This page has been fully proofread once and needs a second look.

बालबोधिनीसहितः ।
 
न्यण्डेभ्यो जातानि पक्षिपन्नगादीनि । उद्भि-
ज्जानि भूमिमुद्भिद्य जातानि कक्षवृक्षादीनि ।

स्वेदजानि स्वेदेभ्यो जातानि यूकामशका-
दीनि ॥
 

 
अत्रापि चतुर्विधसकलस्थूलशरीरमेकानेक-
बुद्धिविषयतया वनवज्जलाशयवद्वा समष्टिर्वृक्ष-
वज्जलवद्वा व्यष्टिरपि भवति । एतत्समष्ट्युपहि-
तं चैतन्यं वैश्वानरो विराडित्युच्यते, सर्वन-
६९
 
-
 

 
[commentary]
 
एतत्समष्टीति । अत्राहु: हुः -- न स्थूलशरीरसमुदायः

समष्टिः । तथा सति स्थूलशरीरोपहितास्मदादिजीवसमुदाय
त्र विराट् स्यात् । न चैतद्युक्तम्, विराजो भिन्नतया
श्रवणात् । नापि व्यापकं स्थूलशरीरं समष्टिस्तदुपहितश्च
विराडिति युक्तम्, अस्मदादिवद्विराजः प्रत्यश्नक्षत्वप्रसङ्गात् ।
तस्मान्न समष्ट्युपहितो विराट् । किं तु परिच्छिन्नचतुर्मुखस्थू-
लशरीरोपहितः सत्यलोकाधिपतिः सर्वज्ञो हिरण्यगर्भाच्छत-
गुणापकृष्टानन्दभुग्जीव विशेष एव विराट् । तस्य च समष्ट्यप-
युपहितत्वमस्मदादिसकलस्थूलशरीराभिमानात्क्वचिद्व्यपदिश्यते ।
न तु वस्तुतः समष्ट्युपहितत्वम्, उक्तहेतोः । स च अस्मदादि-
9