This page has been fully proofread once and needs a second look.

६८
 
वेदान्तसार:
 
माकाशे शब्दोऽभिव्यज्यते, वायौ शब्दस्पर्शीशौ,
अग्नौ शब्दस्पर्शरूपाणि, अप्सु शब्दस्पर्शरूप-
रसाः, पृथिव्यां शब्दस्पर्शरूपरसगन्धाश्च ।
 

 
एतेभ्यः पञ्चीकृतेभ्यो भूतेभ्यो भूर्भुवः स्व-
र्महर्जनस्तपः सत्यमित्येतन्नामकानामुपर्युपरि
विद्यमानानाम्, अतलवितलसुतलरसातलत-
लातलमहातलपातालनामकानामधोऽधो विद्य-
मानानां लोकानां ब्रह्माण्डस्य तदन्तर्वर्तिचतु-
र्विधस्थूलशरीराणां तदुचितानामन्नपानादीनां
चोत्पत्तिर्भवति । चतुर्विधशरीराणि तु जरायु-
जाण्डजोद्भिज्जखेस्वेदजाख्यानि । जरायुजानि ज
रायुभ्यो जातानि मनुष्यपश्चांवादीनि । अण्डजा-
पश्

 
[commentary]
 
पञ्
चीकरणानङ्गीकार आकाशवाय्वोः सूक्ष्मत्वेन सूक्ष्मप्र-
पृथिव्यां गन्धानुपलम्भवत्तयोः शब्दस्पर्शानुपलम्भप्रसङ्ग इति
 
भावः ॥
 

 
उपरि विद्यमानानामित्यादिषष्ठ्यन्तानामेतेभ्य उत्पत्तिर्भ-
वतीत्यन्वयः । शरीराणीत्यादि स्पष्टम् ॥