This page has been fully proofread twice.

त्पञ्चपञ्च ते' इति । अस्याप्रामाण्यं नाशङ्कनीयम्, त्रिवृत्करणश्रुतेः पञ्चीकरणस्याप्युपलक्षणत्वात् । पञ्चानां पञ्चात्मकत्वे समानेऽपि तेषु च 'वैशेष्यात्तद्वादस्तद्वादः' इति न्यायेनाकाशादित्र्व्यपदेशः संभवति । तदानी-
 
[commentary]
 
तु त्रयाणां भूतानां तेजोबन्नानामेकैकं द्विधा विभज्यार्धत्रयमपि प्रत्येकं द्विधा विभज्य तत्तदर्धस्य स्वार्धपरित्यागेनार्धान्तरयोर्योजनम् । उपलक्षणत्वादिति । 'आत्मन आकाशः संभूतः' इत्यादिना पञ्चानामपि भूतानां सृष्ट्याम्नानात्पुराणादावाकाशवाय्वादेरपि स्थूलसूक्ष्मविभागाम्नानादिति भावः । ननु पञ्चानां पञ्चात्मकत्वे समाने, कथमसाधारण्येन पृथिव्यादिव्यपदेशः तत्राह -- पञ्चानामिति ।
वैशेष्यात्पृथिव्यादिभागानामाधिक्यात्, तद्वादः पृथिव्यादिव्यपदेश इत्यर्थः । एवं च पञ्चीकरणे आकाशवाय्वोरपि रूपवत्त्वमहत्त्वाभ्यां चाक्षुषत्वं प्रसज्जत इति दूषणं परास्तम्,
रूपवत्वमहत्त्वयोर्विद्यमानत्वेऽप्याकाशादिभागयोराधिक्येन तदभिभवोपपत्तेः । अन्यथा त्रिवृत्करणपक्षेऽपि तेजसि गन्धोपलम्भप्रसङ्गः । पञ्चीकरणानङ्गीकारे दूषणान्तरमाह -- तदानीमिति, पञ्चीकरणकाले इत्यर्थः ।