This page has been fully proofread once and needs a second look.

बालबोधिनीसहितः ।
 
त्पञ्चपञ्च ते' इति । अस्याप्रामाण्यं नाशङ्क
नीयम्, त्रिवृत्करणश्रुतेः पञ्चीकरणस्याप्युप-
लक्षणत्वात् । पञ्चानां पञ्चात्मकत्वे समाने-
ऽपि तेषु च 'वैशेष्यात्तद्वादस्तद्वादः' इति
न्यायेनाकाशादित्र्यपदेशः संभवति । तदानी -
 

 
[commentary]
 
तु त्रयाणां भूतानां तेजोबन्नानामेकैकं द्विधा विभज्यार्धत्रय-
मपि प्रत्येकं द्विधा विभज्य तत्तदर्धस्य स्वार्धपरित्यागेना-
र्घा
र्धान्तरयोर्योजनम् । उपलक्षणत्वादिति । 'आत्मन आ-
काश:शः संभूतः' इत्यादिना पञ्चानामपि भूतानां सृष्ट्या-
म्नानात्पुराणादावा काशवाय्वादेरपि स्थूलसूक्ष्मविभागाम्नाना-
दिति भावः । ननु पञ्चानां पञ्चात्मकत्वे समाने, कथमसा-
धारण्येन पृथिव्यादिव्यपदेशः तत्राह -- पञ्चानामिति ।

वैशेष्यात्पृथिव्यादिभागानामाधिक्यात्, तद्वादः पृथिव्या-
दिव्यपदेश इत्यर्थः । एवं च पञ्चीकरणे आकाशवाय्वो-
रपि रूपवत्त्व महत्त्वाभ्यां चाक्षुषत्वं प्रसज्जत इति दूषणं
 
A
 
in
 
j
 
परास्तम्,
 

रूपवत्वमहत्त्वयोर्विद्यमानत्वेऽध्प्याकाशादिभाग-
08.
 
योराधिक्येन तदभिभवोपपत्ते:तेः । अन्यथा त्रिवृत्करणपक्षे-
ऽपि तेजसि गन्धोपलम्भप्रसङ्गः । पञ्चीकरणानङ्गीकारे
दूषणान्तरमाह -- तदानीमिति, पञ्चीकरणकाले इत्यर्थः