This page has been fully proofread twice.

श्रुतेः । अत्रापि समष्टिव्यष्ट्योस्तदुपहितसूत्रात्मतैजसयोर्वनवृक्षवत्तदवच्छिन्नाकाशवच्च
जलाशयजलवत्तद्गतप्रतिबिम्बाकाशवच्च अभेदः । एवं सूक्ष्मशरीरोत्पत्तिः ॥
 
स्थूलभूतानि तु पञ्चीकृतानि । पञ्चीकरणं त्वाकाशादिषु पञ्चस्वेकैकं द्विधा समं विभज्य तेषु दशसु भागेषु प्राथमिकान्पञ्च भागान्प्रत्येकं चतुर्धा समं विभज्य तेषां चतुर्णां भागानां
स्वस्वद्वितीयार्धभागपरित्यागेन भागान्तरेषु योजनम् । तदुक्तम् -- 'द्विधा विधाय चैकैकं चतुर्धा प्रथमं पुनः । स्वस्वेतरद्वितीयांशैर्योजना-
 
[commentary]
 
तथापि मनसि वृत्तिः वर्तनं येषां ते निद्रादिदोषाः, तैः साहाय्यं प्राप्य स्वयं विषयाननुभवत इत्यर्थ इति द्रष्टव्यम् । स्वाप्निकपदार्थाश्च मूलाज्ञानकार्या इत्यन्यत्र विस्तरोऽस्मत्तातकृतौ । लिङ्गशरीरनिरूपणमुपसंहरति -- एवमिति ॥
 
स्थूलानि निरूपयति -- स्थूलेति । 'तासामेकैकां त्रिवृतं त्रिवृतं करवाणि' इति विवृत्करणश्रुतिः । त्रिवृत्करणं