This page has not been fully proofread.

। वेदान्तसारः..
 
श्रुतेः । अत्रापि समष्टिव्यष्टयोस्तदुपहितसूत्रा-
त्मतैजसयोर्वनवृक्षवत्तदवच्छिन्नाकाशवच्च
लाशयजलवत्तद्गतप्रतिबिम्बाकाशवञ्च अभेदः ।,
एवं सूक्ष्मशरीरोत्पत्तिः ॥
 

 
"
 
स्थूलभूतानि तु पञ्चीकृतानि । पञ्चीकरणं
त्वाकाशादिषु पञ्चस्वैकैकं द्विधा समं विभज्य
तेषु दशसु भागेषु प्राथमिकान्पञ्च भागान्प्रत्येकं
चतुर्धा समं विभज्य तेषां चतुर्णी भागानां
स्वस्वद्वितीयार्धभागपरित्यागेन भागान्तरेषु यो-
जनम् । तदुक्तम् – 'द्विधा विधाय चैकैकं च
तुर्धा प्रथमं पुनः । स्वस्वेतरद्वितीयांशैर्योजना-
तथापि मनसि वृत्तिः वर्तनं येषां ते निद्रादिदोषाः, तैः सा-
:
 
17
 
pi.
 
हाय्यं प्राप्य स्वयं विषयाननुभवत इत्यर्थ इति द्रष्टव्यम् ।
स्वाप्निक पदार्थाश्च मूलाज्ञानकार्या इत्यन्यत्र विस्तरोऽस्मत्ता-
तकृतौ । लिङ्गशरीरनिरूपणमुपसंहरति — एवमिति ॥
 
to..
 
"'
 
2
 
:
 
-
 
स्थूलानि निरूपयति - स्थूलेति । 'तासामेकैकां त्रि-
वृतं त्रिवृतं करवाणि' इति विवृत्करणश्रुतिः । त्रिवृत्करणे