This page has been fully proofread twice.

ति हेतोरेव सूक्ष्मशरीरं विज्ञानमयादिकोशत्रयं जाग्रद्वासनामयत्वात्स्वप्नः, अत एव स्थूलशरीरलयस्थानमिति चोच्यते । एतौ सूत्रात्मतैजसौ तदानीं मनोवृत्तिभिः सूक्ष्मविषयाननुभवतः, 'प्रविविक्तभुक्तैजसः' इत्यादि-
 
[commentary]
 
यतो वासनामयम् अत एवेत्यर्थः । अन्तःकरणस्य तेजोमयत्वं तेजोबाहुल्यात् । तदानीमिति, स्वप्नकाले इत्यर्थः । सूक्ष्मविषयान् प्रातिभासिकान्रथादीनित्यर्थः । यत्तु वासनानिर्मितत्वेन सूक्ष्मत्वमिति, तन्न । सत्कार्यवादे घटादेरपि वासनाजन्यत्वेन सूक्ष्मत्वापत्तेः । न च वासनामात्रजन्यत्वे
तत्सूक्ष्मत्वमिति वाच्यम्, स्वाप्निकपदार्थानामज्ञानजन्यत्वेन वासनामात्राजन्यत्वात् । मनोवृत्तिभिरिति । यद्यपि स्वाप्निकपदार्थानां साक्षिण्यध्यस्तत्वेन सुखादिवत्साक्षिवेद्यत्वम्, न च साक्षिण्यध्यासे इदंतया प्रतिभासः कथमिति वाच्यम्, तस्यापि भ्रान्तत्वात् । एतच्च 'देशेऽपि तादृश एव' इत्यादिना स्वप्नटीकायां स्पष्टम् । किं च मनोवृत्तेः प्रमाणसहकारित्वेन तदानीं च प्रमाणोपरमात् न मनोवृत्तिगम्यत्वं स्वाप्निकानाम्, किं तु साक्षिवेद्यत्वमेव ।