This page has been fully proofread once and needs a second look.

बालबोधिनीसहितः ।
 
ति हेतोरेव सूक्ष्मशरीरं विज्ञानमयादिकोश-
त्रयं जाग्रद्वासनामयत्वात्स्वप्नः, अत एव स्थू-
लशरीरलयस्थानमिति चोच्यते । एतौ सूत्रा-
त्मतैजसौ तदानीं मनोवृत्तिभिः सूक्ष्मविषया-
ननुभवतः, 'प्रविविक्तभुक्तैजसः' इत्यादि-
6
 
६५.
 

 
[commentary]
 
यतो वासनामयम् अत एवेत्यर्थः । अन्त:तःकरणस्य तेजोम-
यत्वं तेजोबाहुल्यात् । तदानीमिति, स्वप्नकाले इत्यर्थः ।
सूक्ष्मविषयान् प्रातिभासिकान्रथादीनित्यर्थः । यत्तु वासना-
निर्मितत्वेन सूक्ष्मत्वमिति, तन्न । सत्कार्यवादे घटादेरपि
वासनाजन्यत्वेन सूक्ष्मत्वापत्तेः । न च वासनामात्रजन्यत्वे

तत्सूक्ष्मत्वमिति वाच्यम्, स्वाप्निकपदार्थानामज्ञानजन्य-
त्वेन वासनामात्राजन्यत्वात् । मनोवृत्तिभिरिति । यद्यपि
स्वाप्निकपदार्थानां साक्षिण्यध्यस्तत्वेन सुखादिवत्साक्षिवेद्य-
त्वम्, न च साक्षिण्यध्यासे इदंतया प्रतिभासः कथमिति
वाच्यम्, तस्यापि भ्रान्तत्वात् । एतच्च 'देशेऽपि तादृश
एव' इत्यादिना स्वप्नटीकायां स्पष्टम् । किं च मनोवृत्तेः
प्रमाणसहकारित्वेन तदानीं च प्रमाणोपरमात् न मनो-
वृत्तिगम्यत्वं स्वाप्निकानाम्, किं तु साक्षिवेद्यत्वमेव ।
 
* V 5